(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.261. अध्यायः 261
Mahabharata - Vana Parva - Chapter Topics
मुद्गलचित्तपरीक्षणाय दुर्वाससा षट्कृत्वोयाचनेष्यविकृतमनसा तेन तदातदाऽन्नदानेन तत्तोषणम् ॥ 1 ॥ तन्महिम्ना सविमानेन देवदूतेन सशरीरस्यैव मुद्गलस्य स्वर्गंप्रत्याह्नानम् ॥ 2 ॥ मुद्गलेन तंप्रति स्वर्गस्वरूपनिरूपणप्रार्थना ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

युदिष्ठिर उवाच। 3-261-0x(2637)(25969)
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना।
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥ 3-261-1(25970)
प्रत्यक्षधर्मा भगवान्यस् तुष्टो हि कर्मभिः।
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥ 3-261-2(25971)
व्यास उवाच। 3-261-3x(2638)
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः।
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥ 3-261-3(25972)
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः।
सत्रमिष्टीकृतंनाम समुपास्ते महातपाः ॥ 3-261-4(25973)
सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह।
कपोतवृत्त्या पक्षेण व्रीहिद्रोयणमुपार्जयत् ॥ 3-261-5(25974)
दर्शं च पौर्णमासं च कुर्वन्विगतमन्सरः।
देवतातिथिशेषेण कुरुते देहयापनम् ॥ 3-261-6(25975)
तत्रेन्द्रः सहितो देवैः साक्षात्रिभुवनेश्वरः।
प्रत्यृह्णान्महाराज भागं पर्वणिपर्वणि ॥ 3-261-7(25976)
स पर्वकाल्यं कृत्वा तु मुनिवृत्त्या समन्वितः।
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥ 3-261-8(25977)
व्रीहिद्रोणस्य तत्प्रीत्या ददतोऽन्नं महात्मनः।
ऋषेर्मात्सर्यहीनस् वर्धत्यतिथिदर्शनात् ॥ 3-261-9(25978)
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम्।
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥ 3-261-10(25979)
तं तु रशुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम्।
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥ 3-261-11(25980)
विभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव।
विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥ 3-261-12(25981)
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः।
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥ 3-261-13(25982)
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत।
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥ 3-261-14(25983)
प्रादात्स तपसोपात्तं क्षुधितायातिथिप्रियः।
उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥ 3-261-15(25984)
ततस्तदन्नं रसवत्स एव क्षुधयाऽन्वितः।
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥ 3-261-16(25985)
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः।
अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः ॥ 3-261-17(25986)
`तेनैवात्मानमालिप्य हसन्गायन्प्रधावति।
नृत्यते धावते चैव बुद्ध्या तत्क्रोशते तथा' ॥ 3-261-18(25987)
एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः।
आगम्य बुभुजे सर्वमन्नपुञ्छोपजीविनः ॥ 3-261-19(25988)
निराहारस्तु स मुनिरुञ्छमार्जये पुनः।
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥ 3-261-20(25989)
न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः।
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥ 3-261-21(25990)
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम्।
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥ 3-261-22(25991)
न चास् मनसः कश्चिद्विकारो दृश्यते मुनेः।
शुद्धसत्वस्य शुद्धं स ददृशे निर्मलं मनः ॥ 3-261-23(25992)
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा।
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥ 3-261-24(25993)
क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च।
विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥ 3-261-25(25994)
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम्।
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥ 3-261-26(25995)
श्रमेणोपार्जितं त्यक्तं न च दुःखेन चेतसा।
तत्सर्वं भवता साधो यथावदुपपादितम् ॥ 3-261-27(25996)
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह।
इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः।
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ॥ 3-261-28(25997)
`लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः।
धर्मोपि धार्यते येन धृतियुक्त त्वयाऽऽत्मना ॥ 3-261-29(25998)
विशुद्धसत्वसंपन्नो न त्वदन्योस्ति कश्चन'।
जितास्ते कर्मभिर्लोकाः प्राप्तोसि परमां गतिम् ॥ 3-261-30(25999)
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः।
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥ 3-261-31(26000)
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः।
देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥ 3-261-32(26001)
हंससारसयुक्तेन किङ्किणीजालमालिना।
कामगेन विचित्रेण दिव्यगन्धवता तथा ॥ 3-261-33(26002)
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम्।
समुपारोह संसिद्धिं प्राप्तोसि परमां मुने ॥ 3-261-34(26003)
तमेवंवादिनमृषिर्देवदूतमुवाच ह।
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनां ॥ 3-261-35(26004)
के गुणास्तत्रवसतां किं तपः कश्च निश्चयः।
स्वर्गे तत्रसुखं किं च दोषो वा देवदूतक ॥ 3-261-36(26005)
सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः।
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥ 3-261-37(26006)
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन्।
श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥ 3-261-38(26007)

इति श्रीमन्महाभारते अरण्यपर्वणि व्रीहिद्रौणिकपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥ 261 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-261-2 प्रत्यक्षधर्मा नृणां धर्मस्य वेत्ता। भगवान् ईश्वरः ॥ 3-261-3 उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः। ते उभे वृत्तिर्जीवनं यस् स शिलोञ्छवृत्तिः ॥ 3-261-4 कापोतींवृत्तिं अल्पसंग्रहरूपाम्। इष्टीकृतंइष्टिभिरेव निर्वर्त्यं नतु पश्वादिना सत्रं यज्ञम् ॥ 3-261-9 व्रीहिद्रोणमात्रं यदा सिध्यति तदा ददाति तदा च दीयमानं तद्वर्धति वर्धते ॥ 3-261-10 ऋच्छति प्राप्नोति ॥ 3-261-12 विकचः हसन्मुण्डो वा ॥ 3-261-19 द्वितीये पक्षे ॥ 3-261-25 क्षुत् क्षुधा ॥ 3-261-27 त्यक्तुं दुःखं शुद्धेन चेतसा इति ख. झ. ध. पाठः ॥ 3-261-38 व्यवसायं निश्चयम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.